आर्यसमाज संध्या मंत्र

ओ३म भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।

धियो यो नः प्रचोदयात ।।

ओं शन्नो देवीरभिष्टयsआपो भवन्तु पीतये।

शंयोरभिस्रवन्तु नः।।

ओं वाक वाक – इस मंत्र से मुख का दायां और बायां भाग,

ओं प्राणः प्राणः – इससे नासिका के दायां और बायां छिद्र,

ओं चक्षुः चक्षुः – इससे दायां और बायां नेत्र,

ओं श्रोत्रं श्रोत्रं – इससे दायां और बायां श्रोत्र,

ओं नाभिः – इससे नाभि,

ओं हृदयम – इससे हृदय,

ओं कण्ठः – इससे कण्ठ,

ओं शिरः – इससे शिर,

ओं बाहुभ्यां यशोबलम – इससे भुजाओं के मूल-स्कन्ध और

ओं करतलकरपृष्ठे – इस मंत्र से दोनों हाथों की हथेलियां एवं उनके पृष्ठ भाग

ओं भूः पुनातु शिरसि – इस मंत्र से शिर पर,

ओं भुवः पुनातु नेत्रयोः – इससे दोनों नेत्रों पर,

ओं स्वः पुनातु कण्ठे – इससे कण्ठ पर,

ओं महः पुनातु हृदये – इससे हृदय पर,

ओं जनः पुनातु नाभ्याम – इससे नाभि पर,

ओं तपः पुनातु पादयोः – इससे दोनों पैरों पर,

ओं सत्यम पुनातु पुनः शिरसि – इससे पुनः शिर पर और 

ओं खं ब्रह्म पुनातु सर्वत्र -

ओं भूः, ओं भुवः, ओं स्वः, ओं महः, ओं जनः, ओं तपः, ओं सत्यम।।ओं ऋतं च सत्यं चाभीद्धात्तपसोsध्यजायत।


ततो रात्र्यजायत ततः समुद्रोsअर्णवः ।। १।।


समुद्रादर्णवादधि संवत्सरोsअजायत।


अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ।। २ ।।


सूर्यचन्द्र्मसौ धाता यथापूर्वमकल्पयत।


दिवं च पृथिवीं चान्तरिक्षमथो स्वः ।। ३ ।।

ओं शन्नो देवीरभिष्टयsआपो भवन्तु पीतये।

शंयोरभिस्रवन्तु नः।।

ओं प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। १।।

दक्षिणा दिगिन्द्रोsधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। २।।

प्रतीची दिग्वरुणोsधिपतिः पृदाकू रक्षितान्नमिषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। ३।।

उदीची दिक् सोमोsधिपतिः स्वजो रक्षिताशनिरिषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। ४ ।।

ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। ५।।

ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः। तेभ्यो नमोsधिपतिभ्यो नमो रक्षतृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। यो३स्मान द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ।। ६।।

ओम् उद्वयन्तमसस्परि स्वः पश्यन्तsउत्तरम।

देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम ।। १।।

उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम ।। २।।

चित्रं देवनामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्रा द्यावापृथ्वी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ।। ३।।

तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत। पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात ।। ४ ।। ओ३म भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।


धियो यो नः प्रचोदयात ।।

हे ईश्वर दयानिधे! भवत्कृपयानेन

जपोपासनादिकर्मणा धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भवेन्नः ।।

ओं नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।

Comments

Popular posts from this blog

Bharatavarsh anucched Sanskrit.

deshbhakti anucched