patra lekhan grade 8
पत्रलेखनम् तव नाम रोहितः अस्तिI स्वविद्यालयस्य वर्षिकोत्सवं वर्णयन् पत्रं पूरयत- देहली तिथि: 7/11/2024 प्रियमित्रं सुमित! सप्रेम नमोनमः I अत्र कुशलं तत्रास्तु I अहं स्वविद्यालयस्य वार्षिकोत्सवस्य विवरणं तव प्रसादाय लिखामि I तस्मिन् अवसरे अस्माकं विद्यालयः वधूरिव भूषितः आसीत् I इतस्ततः मार्गेषु विविधवर्णाः ध्वजाः शोभन्ते स्म I उत्सवस्य अध्यक्षः शिक्षानिदेशकः आसीत् केचन छात्राः एकं नाटकम् अकुर्वन् I एका छात्रा आकर्षकं नृत्यम् अकरोत् I अध्यक्षमहोदयः पारितोषिकानि अपि वितरितवान् I गृहे सर्वेभ्यो मम प्रणामाः I भवतः मित्रम् रोहितः