Popular posts from this blog
Bharatavarsh anucched Sanskrit.
अस्माकं देश: भारतवर्षम् अस्ति। अयमेकः विशालतम: देशः अस्ति। अस्य तिसृषु दिक्षु समुद्रः अस्ति। उत्तरस्यां दिशि पर्वतराज हिमालयः अस्ति। गंगा यमुना गोदावरी प्रभृतयः नद्यः अत्रैव वहन्ति। अत्र अनेकानि तिर्थस्थानानि सन्ति। अत्र रामकृष्ण प्रभृतयः अनेके महापुरुषाः जाताः। अयं देशः कृषिप्रधानः ग्रामप्रधानश्च देशः कथ्यते। अस्य देशस्य राष्ट्रभाषा हिन्दी अस्ति।
deshbhakti anucched
देशभक्ति अनुच्छेद यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । जननी इव जन्मभूमिः पूज्या आदरणीया च भवति । अस्याः यशः सर्वेषां देशवसिनां यशः भवति । अस्याः गौरवेण एव देशवसिनां गौरवम् भवति । ये जनाः स्वाभ्युदयार्थ देशस्याहितं कुर्वन्ति ते अधमाः सन्ति । देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते । अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति । अनया एव प्रेरिताः बहवः देशभक्ताः भगत सिंघः, चन्द्रशेखर आजाद प्रभृतयः आत्मोत्सर्गम् अकुर्वन् । झाँसीश्वरी लक्ष्मीबाई, राणाप्रताप मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देश जाता । देशभक्तिः व्यक्ति-समाज -देशकल्याणार्थ परमम् औषधम् अस्ति ।
Comments
Post a Comment